श्रवणम्

8.64.6
व॒यमु᳚ त्वा॒ दिवा᳚ सु॒ते व॒यं नक्तं᳚ हवामहे ।
अ॒स्माकं॒ काम॒मा पृ᳚ण ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ऊं॒ इति᳚ । त्वा॒ । दिवा᳚ । सु॒ते । व॒यम् । नक्त᳚म् । ह॒वा॒म॒हे॒ ।
अ॒स्माक᳚म् । काम᳚म् । आ । पृ॒ण॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वयं त्वा त्वां दिवा अहनि सुते सोमेभिषुते हवामहे आह्वयामः तथा वय नक्तं हवामहे । आहूतः आगत्यास्माकं काममापृणापूरय ॥ ६ ॥