श्रवणम्

7.22.1
पिबा॒ सोम᳚मिन्द्र॒ मन्द᳚तु त्वा॒ यं ते᳚ सु॒षाव᳚ हर्य॒श्वाद्रि᳚ः ।
सो॒तुर्बा॒हुभ्यां॒ सुय᳚तो॒ नार्वा᳚ ॥
▶ पदपाठः (Word-by-word)
पिब᳚ । सोम᳚म् । इ॒न्द्र॒ । मन्द᳚तु । त्वा॒ । यम् । ते॒ । सु॒साव᳚ । ह॒रि॒॑अ॒श्व॒ । अद्रिः᳚ ।
सो॒तुः । बा॒हु॑भ्या᳚म् । सु॑य᳚तः । न । अर्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सोम पिब ससोमस्त्वा त्वां मन्दतु मादयतु । हे हर्यश्व ते त्वदर्थं सोतुरभिषवकर्तुर्बाहुभ्यामर्वान रश्मिभ्यामश्वइव सुयतः सुष्ठु परिगृहीतोद्रिर्ग्रावा यं सोमं सुषाव ॥ १ ॥