श्रवणम्

7.22.4
श्रु॒धी हवं᳚ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च᳚तो मनी॒षाम् ।
कृ॒ष्वा दुवां॒स्यन्त᳚मा॒ सचे॒मा ॥
▶ पदपाठः (Word-by-word)
श्रु॒धि । हव᳚म् । वि॒॑पि॒पा॒नस्य᳚ । अद्रेः᳚ । बोध᳚ । विप्र᳚स्य । अर्च᳚तः । म॒नी॒षाम् ।
कृ॒ष्व । दुवां᳚सि । अन्त᳚मा । सचा᳚ । इ॒मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र बिपिपानस्य विपीतवतो विपिबतोवा ममाद्रेर्ग्राव्णोहवमाह्वानं श्रुधि शृणु । तथाच निगमन्तरं-ग्रावभ्योवाचंवदतावदड्भ्यइति । विप्रस्य प्राज्ञस्य वसिष्ठस्यार्चतः स्तुवतो मनीषां स्तुतिं बोध बुध्यस्व च । इमा इमानि क्रियमाणानि दुवांसि परिचरणान्यन्तमान्तिकत- मानि बुद्धिस्थानि सचा सह सहायभूतःसन् वा कृष्व कुरु च ॥ ४ ॥