श्रवणम्

7.22.6
भूरि॒ हि ते॒ सव᳚ना॒ मानु᳚षेषु॒ भूरि᳚ मनी॒षी ह᳚वते॒ त्वामित् ।
मारे अ॒स्मन्म᳚घव॒ञ्ज्योक्क᳚ः ॥
▶ पदपाठः (Word-by-word)
भूरि᳚ । हि । ते॒ । सव᳚ना । मानु᳚षेषु । भूरि᳚ । म॒नी॒षी । ह॒व॒ते॒ । त्वाम् । इत् ।
मा । आ॒रे । अ॒स्मत् । म॒घ॒॑व॒न् । ज्योक् । क॒रिति᳚ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् ते तव सवना सवनानि सोमाभिषवणानि भूरि भूरीणि मानुषेष्वस्मसु वर्तन्तइतिशेषः । हिः पूरणः मनीषी स्तोता त्वामित् त्वामेव भूरि हवते नितरांस्तौति आह्वयति । अतोस्मदस्मत्ताआरे दूरे ज्योक् चिरकालं माकः आत्मानं माकार्षिः क्षिप्रमात्मानमस्मदा- सन्नं कुर्वित्यर्थः ॥ ६ ॥