ये च॒ पूर्व॒ ऋष᳚यो॒ ये च॒ नूत्ना॒ इन्द्र॒ ब्रह्मा᳚णि ज॒नय᳚न्त॒ विप्रा᳚ः ।
अ॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
अ॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
ये । च॒ । पूर्वे᳚ । ऋष᳚यः । ये । च॒ । नूत्नाः᳚ । इन्द्र᳚ । ब्रह्मा᳚णि । ज॒नय᳚न्त । विप्राः᳚ ।
अ॒स्मे इति᳚ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
अ॒स्मे इति᳚ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
ये च पूर्वे प्रक्तना ऋषयः ये च नूत्नाः नूतनाः विप्रामेधाविनऋषयो ब्रह्माणि स्तोत्राणि जनयन्त अजनयन्त तेष्विविवास्मे अस्मास्वपि हे इन्द्र ते तव सख्या सख्यानि शिवानि भद्राणि सन्तु स्पष्टमन्यत् ॥ ९ ॥
उदुब्रह्माणीति षळृचं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं अनुक्रम्यतेच-उदुषळिति । अग्निष्टोमे माध्यन्दिनसवने ब्राह्मणाच्छंसिशस्त्रे एतत्सूक्तं सूत्रितंच-उदुब्रह्माण्यृजीषीवज्रीवृषभस्तुराषाळिति याज्येति । चातुर्विंशिकेहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे एतदहर- हः शस्य संज्ञकं सूक्तम् । सूत्रितं च । उदुब्रह्माण्यभितष्टेवेतीतरावहरहःशस्येइति । अहर्गणेषु द्वितीयादिष्वहः स्वेतदेवसूक्तं महाव्रतेपि नि- ष्केवल्येएतत्सूक्तं सूत्रितं च-उदुब्रह्माण्यैरतश्रवस्यातेमह इन्द्रोत्युग्रेति पंचसूक्तानीति ।