श्रवणम्

7.22.3
बोधा॒ सु मे᳚ मघव॒न्वाच॒मेमां यां ते॒ वसि᳚ष्ठो॒ अर्च᳚ति॒ प्रश᳚स्तिम् ।
इ॒मा ब्रह्म᳚ सध॒मादे᳚ जुषस्व ॥
▶ पदपाठः (Word-by-word)
बोध᳚ । सु । मे॒ । म॒घ॒॑व॒न् । वाच᳚म् । आ । इ॒माम् । याम् । ते॒ । वसि᳚ष्ठः । अर्च᳚ति । प्र॑श᳚स्तिम् ।
इ॒मा । ब्रह्म᳚ । स॒ध॒॑मादे᳚ । जु॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् धनवन्निन्द्र ते तव प्रशस्तिं स्तुतिरूपां यां वाचं वसिष्ठः अर्चति तामिमां मे वसिष्ठस्य संबन्धिनीं वाचं स्वबोध सुष्ठु अभिबुध्य- स्व । किं च इमा इमानि ब्रह्म ब्रह्माणि सधमादे यज्ञे जुषस्व सेवस्व ॥ ३ ॥