यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन᳚ वृ॒त्राणि᳚ हर्यश्व॒ हंसि᳚ ।
स त्वामि᳚न्द्र प्रभूवसो ममत्तु ॥
स त्वामि᳚न्द्र प्रभूवसो ममत्तु ॥
पदपाठः (Word-by-word)
यः । ते॒ । मदः᳚ । युज्यः᳚ । चारुः᳚ । अस्ति᳚ । येन᳚ । वृ॒त्राणि᳚ । ह॒रि॒॑अ॒श्व॒ । हंसि᳚ ।
सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति᳚ प्रभु॑वसो । म॒म॒त्तु॒ ॥
सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति᳚ प्रभु॑वसो । म॒म॒त्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे हर्यश्व ते तव यः युज्योगुणः चारुः समीचीनो मदो मदकरः सोमोस्ति विद्यते येनच पीतेन सोमेन वृत्राणि हंसि । हे प्रभूवसो प्रभूत- धनेन्द्र त्वां ससोमोममत्तु मादयतु ॥ २ ॥