श्रवणम्

7.22.5
न ते॒ गिरो॒ अपि᳚ मृष्ये तु॒रस्य॒ न सु᳚ष्टु॒तिम᳚सु॒र्य᳚स्य वि॒द्वान् ।
सदा᳚ ते॒ नाम᳚ स्वयशो विवक्मि ॥
▶ पदपाठः (Word-by-word)
न । ते॒ । गिरः᳚ । अपि᳚ । मृ॒ष्ये॒ । तु॒रस्य᳚ । न । सु॒॑स्तु॒तिम् । अ॒सु॒र्य᳚स्य । वि॒द्वान् ।
सदा᳚ । ते॒ । नाम᳚ । स्व॒॑य॒शः॒ । वि॒व॒क्मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तुरस्य शत्रूणां हिंसकस्य ते तव गिरः स्तुतीरसुर्यस्य द्वितीयार्थे षष्ठी त्वदीयमसुर्यं बलं विद्वान् जानन् अहं नापिमृष्ये मृषिर्मार्ज- नकर्मा न मार्जयामि नपरित्यजामीत्यर्थः । सुष्टुतिं शोभनां स्तुतिं च नापिमृष्ये मृषेर्मार्जनकर्मत्वमन्यत्रापिदृश्यते । तद्यथा-मानोअग्नेस- ख्यापित्र्याणिप्रमर्षिष्ठाइति । किंतु स्वयशः असाधारणयशस्ते तव नाम स्तोत्रं सदा सदैव विवक्मि ब्रवीति ॥ ५ ॥