श्रवणम्

7.36.2
इ॒मां वां᳚ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ᳚ण्वे असुरा॒ नवी᳚यः ।
इ॒नो वा᳚म॒न्यः प᳚द॒वीरद᳚ब्धो॒ जनं᳚ च मि॒त्रो य᳚तति ब्रुवा॒णः ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒॑वृ॒क्तिम् । इष᳚म् । न । कृ॒ण्वे॒ । अ॒सु॒रा॒ । नवी᳚यः ।
इ॒नः । वा॒म् । अ॒न्यः । प॒द॒॑वीः । अद᳚ब्धः । जन᳚म् । च॒ । मि॒त्रः । य॒त॒ति॒ । ब्रु॒वा॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे असुरा असुरौ बलवन्तौ हे मित्रावरुणा मित्रावरुणौ वां युवाभ्यां इषं न हवीरूपमन्नमिव नवीयो नवीयसीं इमामस्मदीयां पुरोवर्तिनीं सुवृक्तिं स्तुतिं कृण्वे अहं स्तोता करोमि । युवयोरन्यः अन्यतरः इनः प्रभुः अदब्धः शत्रुभिरहिंसितोवरुणः पदवीः पदस्य स्थानस्य प्रजनयिता वरुणोहि धर्माधर्मयोर्धरयितेति पदवीरित्युच्यते । ब्रुवाणः अस्माभिः स्तूयमानो मित्रश्च जनं सर्वं प्राणिजातं यतति यातयति प्रवर्तयति । तथाच श्रूयते-मित्रोजनान्यातयतिब्रुवाणइति ॥ २ ॥