श्रवणम्

7.36.7
उ॒त त्ये नो᳚ म॒रुतो᳚ मन्दसा॒ना धियं᳚ तो॒कं च᳚ वा॒जिनो᳚॑वन्तु ।
मा न॒ः परि᳚ ख्य॒दक्ष᳚रा॒ चर॒न्त्यवी᳚वृध॒न्युज्यं॒ ते र॒यिं नः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्ये । नः॒ । म॒रुतः᳚ । म॒न्द॒सा॒नाः । धिय᳚म् । तो॒कम् । च॒ । वा॒जिनः᳚ । अ॒व॒न्तु॒ ।
मा । नः॒ । परि᳚ । ख्य॒त् । अक्ष᳚रा । चर᳚न्ती । अवी᳚वृधन् । युज्य᳚म् । ते । र॒यिम् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच मन्दसानाः मोदमानाः वाजिनोवेगवन्तः त्ये ते मरुतो नोस्मदीयं धियं यज्ञाख्यं कर्म तोकं च अस्मदीयं पुत्रं च अवन्तु रक्षन्तु । अक्षरा व्याप्ता चरन्ती वाग्देवता च युज्यं नोस्मान्परित्यत्त्का अरमव्द्यतिरिक्तानन्यान् माख्यत् माद्राक्षीत् । ते पूर्वोक्तामरुतो वाक्च युक्तमपि नोस्मदीयं रयिं धनं अवीवृधन् वर्धयन्तु ॥ ७ ॥