श्रवणम्

7.36.8
प्र वो᳚ म॒हीम॒रम᳚तिं कृणुध्वं॒ प्र पू॒षणं᳚ विद॒थ्यं१॒᳚ न वी॒रम् ।
भगं᳚ धि॒यो᳚॑वि॒तारं᳚ नो अ॒स्याः सा॒तौ वाजं᳚ राति॒षाचं॒ पुरं᳚धिम् ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । म॒हीम् । अ॒रम᳚तिम् । कृ॒णु॒ध्व॒म् । प्र । पू॒षण᳚म् । वि॒द॒थ्य᳚म् । न । वी॒रम् ।
भग᳚म् । धि॒यः । अ॒वि॒तार᳚म् । नः॒ । अ॒स्याः । सा॒तौ । वाज᳚म् । रा॒ति॒॑साच᳚म् । पुर᳚म्॑धिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारो वो यूयं अरमतिं उपरतिरहितां महीं महतीं भूमिं प्रकृणुध्वं आह्वयत तथा विदथ्यं यज्ञार्हं वीरं न सर्वेषां प्रेरकं च पूषणं एतन्नामकं देवं प्रकृणुध्वं तथा अस्याधियः नोस्मदीयस्यास्यकर्मणः अवितारं रक्षितारं भगं देवं च आह्वयत अपि च सातौ अस्मदीये यज्ञे युद्धेवा वाजं ऋभूणामन्यतमं देवं आह्वयत कीदृशं वाजं रातिषाचं दानसेचकं पुरंधिं पुराणां धारयितारं ॥ ८ ॥