गि॒रा य ए॒ता यु॒नज॒द्धरी᳚ त॒ इन्द्र᳚ प्रि॒या सु॒रथा᳚ शूर धा॒यू ।
प्र यो म॒न्युं रिरि᳚क्षतो मि॒नात्या सु॒क्रतु᳚मर्य॒मणं᳚ ववृत्याम् ॥
प्र यो म॒न्युं रिरि᳚क्षतो मि॒नात्या सु॒क्रतु᳚मर्य॒मणं᳚ ववृत्याम् ॥
पदपाठः (Word-by-word)
गि॒रा । यः । ए॒ता । यु॒नज᳚त् । हरी॒ इति᳚ । ते॒ । इन्द्र᳚ । प्रि॒या । सु॒॑रथा᳚ । शू॒र॒ । धा॒यू इति᳚ ।
प्र । यः । म॒न्युम् । रिरि᳚क्षतः । मि॒नाति᳚ । आ । सु॒॑क्रतु᳚म् । अ॒र्य॒मण᳚म् । व॒वृ॒त्या॒म् ॥
प्र । यः । म॒न्युम् । रिरि᳚क्षतः । मि॒नाति᳚ । आ । सु॒॑क्रतु᳚म् । अ॒र्य॒मण᳚म् । व॒वृ॒त्या॒म् ॥
सायणभाष्यम् (Sayana Commentary)
अस्याः पूर्वोर्धर्च इन्द्रस्तुतिः । अपरोर्यम्णः स्तुतिः । हे शूर विक्रान्तेन्द्र तव प्रिया प्रियौ सुरथा सुष्ठुरंहणौ धायू धारकौ एता एतौ हरी त्वदीयावश्वौ योजनः गिरास्तुतिरूपयावाचा युनजत् रथे युंज्यात् हे इन्द्र त्वमस्य यागमायाहीति शेषः योर्यमा रिरिक्षतः हिंसितुमिच्छ- तः शत्रोः संबन्धिनं मन्युं कोपं प्रमिनाति प्रकर्षेण हिनस्ति सुक्रतुं शोभनकर्माणं अर्यमणं आववृत्यां स्तुत्या आवर्तयामि ॥ ४ ॥