अच्छा॒यं वो᳚ मरुत॒ः श्लोक᳚ ए॒त्वच्छा॒ विष्णुं᳚ निषिक्त॒पामवो᳚भिः ।
उ॒त प्र॒जायै᳚ गृण॒ते वयो᳚ धुर्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
उ॒त प्र॒जायै᳚ गृण॒ते वयो᳚ धुर्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
अच्छ᳚ । अ॒यम् । वः॒ । म॒रु॒तः॒ । श्लोकः᳚ । ए॒तु॒ । अच्छ᳚ । विष्णु᳚म् । नि॒सि॒क्त॒॑पाम् । अवः᳚॑भिः ।
उ॒त । प्र॒॑जायै᳚ । गृ॒ण॒ते । वयः᳚ । धुः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
उ॒त । प्र॒॑जायै᳚ । गृ॒ण॒ते । वयः᳚ । धुः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे मरुतो वो युष्मान् अयं श्लोकः अस्मदीयमिदं स्तोत्रं अच्छैतु अभिगच्छतु निषिक्तपां निपिक्तस्य गर्भस्य रक्षितारं यद्वा चमसे निषिक्तानां सोमानां पातारं अवोभिरस्मद्विषयरक्षणैर्युक्तं विष्णुंच अस्मदीयं स्तोत्रमच्छैतु उतापिच मरुतोविष्णुश्च गृणते स्तुवते मह्यं प्रजायै पुत्ररूपां प्रजां वयोन्नंच धुः अधुः दधतु । हे मरुतः हे विष्णो यूयं स्वस्तिभिरविनाशैर्नोस्मान् सदा सर्वदा पात रक्षत ॥ ९ ॥
आवोवाहिष्ठइत्यष्टर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्चदेवं अनुक्रम्यतेच-आवोष्टाविति । विनियोगोलैंगिकः ।