आ वात᳚स्य॒ ध्रज᳚तो रन्त इ॒त्या अपी᳚पयन्त धे॒नवो॒ न सूदा᳚ः ।
म॒हो दि॒वः सद᳚ने॒ जाय᳚मा॒नो॑चि᳚क्रदद्वृष॒भः सस्मि॒न्नूध᳚न् ॥
म॒हो दि॒वः सद᳚ने॒ जाय᳚मा॒नो॑चि᳚क्रदद्वृष॒भः सस्मि॒न्नूध᳚न् ॥
पदपाठः (Word-by-word)
आ । वात᳚स्य । ध्रज᳚तः । र॒न्ते॒ । इ॒त्याः । अपी᳚पयन्त । धे॒नवः᳚ । न । सूदाः᳚ ।
म॒हः । दि॒वः । सद᳚ने । जाय᳚मानः । अचि᳚क्रदत् । वृ॒ष॒भः । सस्मि᳚न् । ऊध᳚न् ॥
म॒हः । दि॒वः । सद᳚ने । जाय᳚मानः । अचि᳚क्रदत् । वृ॒ष॒भः । सस्मि᳚न् । ऊध᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
ध्रजतो गच्छतो वातस्य वायोः इत्याः गतयः आरन्ते अभितोरमन्ते तथा सूदाः सूदप्रेरणे इतिधातुः क्षीरस्य प्रेरयित्र्यः धेनवो न नेतिचा- र्थे गावश्च अपीपयन्त प्यायन्ते एधन्ते । अपि च महो महतः दिवो द्योतमानस्यादित्यस्य सदने स्थानेन्तरिक्षे जायमानः उत्पद्यमानः वृषभोवर्षणशीलः पर्जन्यः सस्मिन् ऊधन् सस्मिन्नन्तरिक्षे अचिक्रदत् ॥ ३ ॥