आ यत्सा॒कं य॒शसो᳚ वावशा॒नाः सर᳚स्वती स॒प्तथी॒ सिन्धु᳚माता ।
याः सु॒ष्वय᳚न्त सु॒दुघा᳚ः सुधा॒रा अ॒भि स्वेन॒ पय᳚सा॒ पीप्या᳚नाः ॥
याः सु॒ष्वय᳚न्त सु॒दुघा᳚ः सुधा॒रा अ॒भि स्वेन॒ पय᳚सा॒ पीप्या᳚नाः ॥
पदपाठः (Word-by-word)
आ । यत् । सा॒कम् । य॒शसः᳚ । वा॒व॒शा॒नाः । सर᳚स्वती । स॒प्तथी᳚ । सिन्धु᳚॑माता ।
याः । सु॒स्वय᳚न्त । सु॒॑दुघाः᳚ । सु॒॑धा॒राः । अ॒भि । स्वेन᳚ । पय᳚सा । पीप्या᳚नाः ॥
याः । सु॒स्वय᳚न्त । सु॒॑दुघाः᳚ । सु॒॑धा॒राः । अ॒भि । स्वेन᳚ । पय᳚सा । पीप्या᳚नाः ॥
सायणभाष्यम् (Sayana Commentary)
यत् यासां गंगादीनां मध्ये सिन्धुमाता अपां मातृभूता सरस्वती एतदाख्यानदी सप्तथी सप्तमी भवति सुदुघाः कामान्दोग्धुं सुशक्याः सुधाराः शोभनधारोपेताश्च नद्यः सुष्वयन्त सुष्वयन्ते गतिकर्मैतत् प्रवहन्ति स्वेन स्वकीयेन पयसोदकेन अभि पीप्यानाः याश्चाभिवर्धयंत्यः यशसोन्नवत्यः वावशाना कामयमानानद्यः साकं युगपदेव आगच्छन्तु आइत्युपसर्गस्य योग्यक्रियाध्याहारः ॥ ६ ॥