अ॒मी॒व॒हा वा᳚स्तोष्पते॒ विश्वा᳚ रू॒पाण्या᳚वि॒शन् ।
सखा᳚ सु॒शेव᳚ एधि नः ॥
सखा᳚ सु॒शेव᳚ एधि नः ॥
पदपाठः (Word-by-word)
अ॒मी॒व॒॑हा । वा॒स्तोः॒ । प॒ते॒ । विश्वा᳚ । रू॒पाणि᳚ । आ॒॑वि॒शन् ।
सखा᳚ । सु॒॑शेवः᳚ । ए॒धि॒ । नः॒ ॥
सखा᳚ । सु॒॑शेवः᳚ । ए॒धि॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे वास्तोष्पते गृहस्यपालक एतत्संज्ञकदेव अमीवहा अमीवानां रोगाणां नाशकस्त्वं विश्वा विश्वानि बहूनि रूपाणि आविशन् प्रविशन् यद्यद्रूपं कामयन्ते तत्तदेवाविशन्तीति यास्कः । नोस्माकं सखा मित्रभूतः सुशेवः सुष्ठु सुखकरः एधि भव ॥ १ ॥