त्वं सू᳚क॒रस्य᳚ दर्दृहि॒ तव᳚ दर्दर्तु सूक॒रः ।
स्तो॒तॄनिन्द्र᳚स्य रायसि॒ किम॒स्मान्दु᳚च्छुनायसे॒ नि षु स्व᳚प ॥
स्तो॒तॄनिन्द्र᳚स्य रायसि॒ किम॒स्मान्दु᳚च्छुनायसे॒ नि षु स्व᳚प ॥
पदपाठः (Word-by-word)
त्वम् । सू॒क॒रस्य᳚ । द॒र्दृ॒हि॒ । तव᳚ । द॒र्द॒र्तु॒ । सू॒क॒रः ।
स्तो॒तॄन् । इन्द्र᳚स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒॑य॒से॒ । नि । सु । स्व॒प॒ ॥
स्तो॒तॄन् । इन्द्र᳚स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒॑य॒से॒ । नि । सु । स्व॒प॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सारमेय त्वं सूकरस्य वराहस्य द्वितीयार्थेषष्ठी दर्दृहि विदारय सूकरोपि तव दर्दर्तु विदारयतु युवयोर्नित्यवैरित्वात् अस्मान्मादशे- त्यर्थः । स्तोतॄनित्यर्धर्चः पूर्वस्यामृचिव्याख्यातः ॥ ४ ॥