स्ते॒नं रा᳚य सारमेय॒ तस्क᳚रं वा पुनःसर ।
स्तो॒तॄनिन्द्र᳚स्य रायसि॒ किम॒स्मान्दु᳚च्छुनायसे॒ नि षु स्व᳚प ॥
स्तो॒तॄनिन्द्र᳚स्य रायसि॒ किम॒स्मान्दु᳚च्छुनायसे॒ नि षु स्व᳚प ॥
पदपाठः (Word-by-word)
स्ते॒नम् । रा॒य॒ । सा॒र॒मे॒य॒ । तस्क᳚रम् । वा॒ । पु॒नः॒॑स॒र॒ ।
स्तो॒तॄन् । इन्द्र᳚स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒॑य॒से॒ । नि । सु । स्व॒प॒ ॥
स्तो॒तॄन् । इन्द्र᳚स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒॑य॒से॒ । नि । सु । स्व॒प॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे पुनःसर गतमेव देशं पुनः सरतीति पुनःसरः तादृग्भूत हे सारमेय त्वं स्तेनं प्रच्छन्नधनापहारी स्तेनः तं तस्करं प्रत्यक्षधनापहारी तस्करः तं वारय गच्छ इन्द्रस्य स्तोतॄनस्मान् किं रायसि गच्छसि अस्मान् दुच्छुनायसे किं बाधसे निषुस्वप अत्यन्तं निद्रां कुरु ॥ ३ ॥