श्रवणम्

7.55.5
सस्तु᳚ मा॒ता सस्तु᳚ पि॒ता सस्तु॒ श्वा सस्तु᳚ वि॒श्पति᳚ः ।
स॒सन्तु॒ सर्वे᳚ ज्ञा॒तय॒ः सस्त्व॒यम॒भितो॒ जनः᳚ ॥
▶ पदपाठः (Word-by-word)
सस्तु᳚ । मा॒ता । सस्तु᳚ । पि॒ता । सस्तु᳚ । श्वा । सस्तु᳚ । वि॒श्पतिः᳚ ।
स॒सन्तु᳚ । सर्वे᳚ । ज्ञा॒तयः᳚ । सस्तु᳚ । अ॒यम् । अ॒भितः᳚ । जनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सारमेय माता त्वदीया जननी सस्तु स्वपतु पिताच सस्तु श्वा सारमेयोभवान् सस्तु विश्पतिर्जामाता यद्वा विशां जनानां पालको- गृही सस्तु सर्वेज्ञातयोबंधवोपि ससंतु स्वपन्तु अभितः परितःस्थितः अयमपि सर्वोजनः सस्तु स्वपतु ॥ ५ ॥