यद᳚र्जुन सारमेय द॒तः पि᳚शङ्ग॒ यच्छ᳚से ।
वी᳚व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे᳚षु॒ बप्स᳚तो॒ नि षु स्व᳚प ॥
वी᳚व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे᳚षु॒ बप्स᳚तो॒ नि षु स्व᳚प ॥
पदपाठः (Word-by-word)
यत् । अ॒र्जु॒न॒ । सा॒र॒मे॒य॒ । द॒तः । पि॒श॒ङ्ग॒ । यच्छ᳚से ।
वि॑इ᳚व । भ्रा॒ज॒न्ते॒ । ऋ॒ष्टयः᳚ । उप᳚ । स्रक्वे᳚षु । बप्स᳚तः । नि । सु । स्व॒प॒ ॥
वि॑इ᳚व । भ्रा॒ज॒न्ते॒ । ऋ॒ष्टयः᳚ । उप᳚ । स्रक्वे᳚षु । बप्स᳚तः । नि । सु । स्व॒प॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अर्जुन श्वेत हे सारमेय सरमा नाम देवशुनी तस्याः कुलोद्भव हे पिशंग केषुचिदंगेषु पिंगलवर्ण एवंभूत हे शुनक त्वं दतो दन्तान् यद्यदा यच्छसे विवृणोषि अस्मान् दष्टुमित्यर्थः तदानीं वीव भ्राजन्त ऋष्टयः यथा आयुधानि विशेषेण भासन्ते तथा उपास्मत्समीपे बप्सवः भक्षयतस्तव दन्ता स्रक्वेषु स्रक्वासु भासन्ते । स्रक्वा शब्द ओष्ठप्रदेशविशेषवाचीत्यर्थः तथाभूतस्त्वं इदानीं सु सुष्ठु निस्वप नितरां निद्रां कुरु ॥ २ ॥