श्रवणम्

7.55.8
प्रो॒ष्ठे॒श॒या व᳚ह्येश॒या नारी॒र्यास्त᳚ल्प॒शीव᳚रीः ।
स्त्रियो॒ याः पुण्य᳚गन्धा॒स्ताः सर्वा᳚ः स्वापयामसि ॥
▶ पदपाठः (Word-by-word)
प्रो॒ष्ठे॒॑श॒याः । व॒ह्ये॒॑श॒याः । नारीः᳚ । याः । त॒ल्प॒॑शीव᳚रीः ।
स्रियः᳚ । याः । पुण्य᳚॑गन्धाः । ताः । सर्वाः᳚ । स्वा॒प॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाः यादृश्यः नारीः नार्यः स्त्रियः प्रोष्ठेशयाः प्रांकणेशयानाः यावह्येशयाः वह्यं वाहनं तस्मिन् शयानाः यास्तल्पशीवरीः तल्पशयाः याः स्त्रियः पुण्यगंधाः मंगल्यगन्धाः तास्तादृशीः सर्वाः स्त्रीः स्वापयामसि वयं निद्रां कारयामः ॥ ८ ॥

अथचतुर्थेनुवाके पंचदशसूक्तानि तत्र कईंव्यक्तेति पंचविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं मरुद्देवताकं आद्याएकादशद्विपदाविंशत्यक्ष- राविराजः शिष्टाश्चतुर्दशत्रिष्टुभः तथाचानुक्रान्तं-कईंपंचाधिका मारुतंहाद्याएकादशद्विपदाइति । दशरात्रे चतुर्थेहनि आग्निमारुतशस्त्रे इदंमारुतनिविद्धानं सूत्र्यतेहि-वैश्वानरस्यसुमतौ कईंव्यक्तानरइति ।