श्रवणम्

7.55.7
स॒हस्र᳚शृङ्गो वृष॒भो यः स᳚मु॒द्रादु॒दाच᳚रत् ।
तेना᳚ सह॒स्ये᳚ना व॒यं नि जना᳚न्त्स्वापयामसि ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚॑शृङ्गः । वृ॒ष॒भः । यः । स॒मु॒द्रात् । उ॒त्॑आच᳚रत् ।
तेन᳚ । स॒ह॒स्ये᳚न । व॒यम् । नि । जना᳚न् । स्वा॒प॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रशृंगः सहस्रकिरणः वृषभः कामानां वर्षिता यः सूर्यः समुद्रादंबुधेः सकाशादुदाचरत् उदागच्छति सहस्येन अभिभवित्रा तेन सूर्येण वयं स्तोतारः जनान् सर्वान् निष्वापयामसि नितरांस्वापयामः ॥ ७ ॥