श्रवणम्

7.55.6
य आस्ते॒ यश्च॒ चर᳚ति॒ यश्च॒ पश्य᳚ति नो॒ जनः᳚ ।
तेषां॒ सं ह᳚न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा᳚ ॥
▶ पदपाठः (Word-by-word)
यः । आस्ते᳚ । यः । च॒ । चर᳚ति । यः । च॒ । पश्य᳚ति । नः॒ । जनः᳚ ।
तेषा᳚म् । सम् । ह॒न्मः॒ । अ॒क्षाणि᳚ । यथा᳚ । इ॒दम् । ह॒र्म्यम् । तथा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योजनः आस्ते अस्मिन् प्रदेशे तिष्ठति यश्च चरति गच्छति यश्च जनः नोस्मान् पश्यति एवं भूतानां तेषां जनानां अक्षाणीन्द्रियाणि सं- हन्मः संहनाम संहतिर्निमीलनं निमीलयामेत्यर्थः । इदं प्रत्यक्षेणोपलभ्यमानं हर्म्यं प्रासादादिस्थावरात्मकं वस्तुजातं यथा निश्चलं भवति तथा इमे सर्वे जनाः निश्चलाभवंत्वित्यर्थः ॥ ६ ॥