श्रवणम्

7.83.1
यु॒वां न᳚रा॒ पश्य᳚मानास॒ आप्यं᳚ प्रा॒चा ग॒व्यन्त᳚ः पृथु॒पर्श᳚वो ययुः ।
दासा᳚ च वृ॒त्रा ह॒तमार्या᳚णि च सु॒दास᳚मिन्द्रावरु॒णाव᳚सावतम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । न॒रा॒ । पश्य᳚मानासः । आप्य᳚म् । प्रा॒चा । ग॒व्यन्तः᳚ । पृ॒थु॒॑पर्श᳚वः । य॒युः॒ ।
दासा᳚ । च॒ । वृ॒त्रा । ह॒तम् । आर्या᳚णि । च॒ । सु॒॑दास᳚म् । इ॒न्द्रा॒व॒रु॒णा॒ । अव᳚सा । अ॒व॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नेताराविन्द्रावरुणौ युवां षष्ठ्यर्थे द्वितीया युवयोः आप्यं बन्धुभावं पश्यमानासः पश्यन्तः युष्मत् बान्धवलाभर्थिनः गव्यन्तो गा आत्मनइच्छन्तोयजमानाः पृथुपर्शवः पृथुर्विस्तीर्णः पर्शुः पार्श्वास्थि येषां ते तथोक्ताः विस्तीर्णाश्वपर्शुहस्ताः सन्तः प्राचा प्राचीनं ययुः बर्हिराहरणार्थं गच्छन्ति पर्श्वाहि बर्हिराच्छिद्यते । तथाच तैत्तिरीयकम्-अश्वपर्श्वाबर्हिरच्छैतीति । हे इन्द्रावरुणौ युवां दासा दासानि उपक्षपयितॄप्मि च वृत्रा वृत्राण्यावरकाणि शत्रुजातानि आर्याणि कर्मानुष्ठानपराणिच शत्रुजातानि हतं हिंस्तम् अपिच सुदासं अस्मद्या- ज्यं एतत्संज्ञं राजानं अवसा रक्षणेन सार्धं अवतमागच्छतम् ॥ १ ॥