श्रवणम्

7.83.4 समानपद
इन्द्रा᳚वरुणा व॒धना᳚भिरप्र॒ति भे॒दं व॒न्वन्ता॒ प्र सु॒दास᳚मावतम् ।
ब्रह्मा᳚ण्येषां शृणुतं॒ हवी᳚मनि स॒त्या तृत्सू᳚नामभवत्पु॒रोहि᳚तिः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणा । व॒धना᳚भिः । अ॒प्र॒ति । भे॒दम् । व॒न्वन्ता᳚ । प्र । सु॒॑दास᳚म् । आ॒व॒त॒म् ।
ब्रह्मा᳚णि । ए॒षा॒म् । शृ॒णु॒त॒म् । हवी᳚मनि । स॒त्या । तृत्सू᳚नाम् । अ॒भ॒व॒त् । पु॒रः॑हि᳚तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणा इन्द्रावरुणौ वधनाभिर्वधकरैरायुधैः अप्रतिगतं अप्राप्तं भेदम् एतत्संज्ञं सुदासः शत्रुं वन्वन्ता हिंसन्तौ युवां सुदासं शोभनं ददातीति सुदाः एतत्संज्ञं मम याज्यं राजानं प्रावतं प्रकर्षेणारक्षतम् एषां तृत्सूनां मम याज्यानां ब्रह्माणि स्तोत्राणि शृणुतं अश्रृणुतं कदा हवीमनि आहूयन्तेस्मिन्युद्धार्थं परस्परमिति हवीमा संग्रामः तस्मिन् यस्मादेवं तस्मात् तृत्सूनां एतत्संज्ञानां मम याज्यानां पुरो- हितिः मम पुरोधानं सत्या सत्यफलमभवत् तेषु यन्ममपौरोहित्यं तत्सफलं जातमित्यर्थः ॥ ४ ॥