श्रवणम्

7.83.10
अ॒स्मे इन्द्रो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा द्यु॒म्नं य᳚च्छन्तु॒ महि॒ शर्म᳚ स॒प्रथः᳚ ।
अ॒व॒ध्रं ज्योति॒रदि᳚तेरृता॒वृधो᳚ दे॒वस्य॒ श्लोकं᳚ सवि॒तुर्म᳚नामहे ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । इन्द्रः᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि᳚ । शर्म᳚ । स॒॑प्रथः᳚ ।
अ॒व॒ध्रम् । ज्योतिः᳚ । अदि᳚तेः । ऋ॒त॒॑वृधः᳚ । दे॒वस्य᳚ । श्लोक᳚म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मे इन्द्रइति व्याख्यातेयम् अक्षरार्थस्तु इन्द्रादयोस्मभ्यं द्योतमानं धनंप्रयच्छंतु सर्वतोविस्तीर्णं महद्गृहञ्च यज्ञस्य वर्धयित्र्याः अदी- नायादेवमातुः तजेश्च अस्माकमबाधकं भवतु वयञ्च प्रेरकस्य देवस्य स्तोत्रं मनामहे कुर्महे ॥ १० ॥

आवामिति पञ्चर्चं चतुर्दशं सूक्तम् वासिष्ठं त्रैष्टुभमैन्द्रावरुणम् अनुक्रान्तञ्च-आवांपञ्चेति । उक्थ्ये तृतीयसवने मैत्रावरुणशस्त्रे इदंसूक्तम् सूत्रितञ्च-आवांराजानाविन्द्रावरुणामधुमत्तमस्येति याज्येति ।