श्रवणम्

7.83.3 समानपद
सं भूम्या॒ अन्ता᳚ ध्वसि॒रा अ᳚दृक्ष॒तेन्द्रा᳚वरुणा दि॒वि घोष॒ आरु᳚हत् ।
अस्थु॒र्जना᳚ना॒मुप॒ मामरा᳚तयो॒॑र्वागव᳚सा हवनश्रु॒ता ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
सम् । भूम्याः᳚ । अन्ताः᳚ । ध्व॒सि॒राः । अ॒दृ॒क्ष॒त॒ । इन्द्रा᳚वरुणा । दि॒वि । घोषः᳚ । आ । अ॒रु॒ह॒त् ।
अस्थुः᳚ । जना᳚नाम् । उप᳚ । माम् । अरा᳚तयः । अ॒र्वाक् । अव᳚सा । ह॒व॒न॒॑श्रु॒ता॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ भूम्याअन्ताः पर्यन्ताः ध्वसिराः सैनिकैर्ध्वस्ताः समदृक्षतं संदृश्यन्ते तथा दिवि द्युलोके घोषः सैनिकानां शब्दश्च आरुहत् आरूढोभवत् जनानामस्मदीयानां भटानां अरातयः शत्रवः मामुपास्थुः उपास्थिताः एवं प्रवर्तमानेस्मिन् युद्धे हे हवनश्रुता आह्वान- श्रवणशीलाविन्द्रावरुणौ अर्वागस्मदभिमुखं अवसा रक्षणेन सह आगतमागच्छतम् ॥ ३ ॥