श्रवणम्

7.83.2
यत्रा॒ नरः᳚ स॒मय᳚न्ते कृ॒तध्व᳚जो॒ यस्मि᳚न्ना॒जा भव᳚ति॒ किं च॒न प्रि॒यम् ।
यत्रा॒ भय᳚न्ते॒ भुव᳚ना स्व॒र्दृश॒स्तत्रा᳚ न इन्द्रावरु॒णाधि᳚ वोचतम् ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । नरः᳚ । स॒म्॑अय᳚न्ते । कृ॒त॑ध्व᳚जः । यस्मि᳚न् । आ॒जा । भव᳚ति । किम् । च॒न । प्रि॒यम् ।
यत्र᳚ । भय᳚न्ते । भुव᳚ना । स्वः॒॑दृशः᳚ । तत्र᳚ । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । अधि᳚ । वो॒च॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्संग्रामे नरोमनुष्याः कृतध्वजः उच्छ्रितध्वजाः समयन्ते युद्धार्थं संगच्छन्ते यस्मिंश्च आजा आजौ युद्धे चनेति निपातद्वयसमु- दायोविभज्ययोजनीयः किञ्च किमपि प्रियमनुकूलं नभवति अपितु सर्वं दुष्करं भवति । यत्रच युद्धे भुवना भुवनानि भूतजातानि स्व- र्दृशः शरीर्पातसदूर्ध्वं स्वर्गस्य द्रष्टारोवीराश्च भयन्ते बिभ्यति तत्र तादृशे संग्रामे हे इन्द्रावरुणौ नोसमानधिवोचतं अस्मत्पक्षपातवचनौ भवतम् ॥ २ ॥