श्रवणम्

7.83.5
इन्द्रा᳚वरुणाव॒भ्या त᳚पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा᳚तयः ।
यु॒वं हि वस्व᳚ उ॒भय᳚स्य॒ राज॒थो॑ध᳚ स्मा नो॑वतं॒ पार्ये᳚ दि॒वि ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणौ । अ॒भि । आ । त॒प॒न्ति॒ । मा॒ । अ॒घानि᳚ । अ॒र्यः । व॒नुषा᳚म् । अरा᳚तयः ।
यु॒वम् । हि । वस्वः᳚ । उ॒भय᳚स्य । राज᳚थः । अध᳚ । स्म॒ । नः॒ । अ॒व॒त॒म् । पार्ये᳚ । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ अर्यः अरेः शत्रोः संबन्धीनि अघान्याहन्तॄण्यायुधानि मा मां अभ्यातपन्ति अभितोबाधन्ते अपिच वनुषां हिंसकानां मध्ये अरातयः अभिगमनशीलाः शत्रवश्च मामभितपन्ति युवं हि युवां खलु उभयस्य पार्थिवस्य दिव्यस्यच वस्वोवसुनोधनस्य राजथः ईशाथे राजतिरैश्वर्यकर्मा अधस्म अतः कारणात् पार्ये तरणीये दिवि दिवसे युद्धदिने नोस्मानवतं रक्षतम् ॥ ५ ॥