यु॒वां ह᳚वन्त उ॒भया᳚स आ॒जिष्विन्द्रं᳚ च॒ वस्वो॒ वरु᳚णं च सा॒तये᳚ ।
यत्र॒ राज᳚भिर्द॒शभि॒र्निबा᳚धितं॒ प्र सु॒दास॒माव᳚तं॒ तृत्सु᳚भिः स॒ह ॥
यत्र॒ राज᳚भिर्द॒शभि॒र्निबा᳚धितं॒ प्र सु॒दास॒माव᳚तं॒ तृत्सु᳚भिः स॒ह ॥
पदपाठः (Word-by-word)
यु॒वाम् । ह॒व॒न्ते॒ । उ॒भया᳚सः । आ॒जिषु᳚ । इन्द्र᳚म् । च॒ । वस्वः᳚ । वरु᳚णम् । च॒ । सा॒तये᳚ ।
यत्र᳚ । राज᳚॑भिः । द॒श॑भिः᳚ । नि॑बा᳚धितम् । प्र । सु॒॑दास᳚म् । आव᳚तम् । तृत्सु᳚॑भिः । स॒ह ॥
यत्र᳚ । राज᳚॑भिः । द॒श॑भिः᳚ । नि॑बा᳚धितम् । प्र । सु॒॑दास᳚म् । आव᳚तम् । तृत्सु᳚॑भिः । स॒ह ॥
सायणभाष्यम् (Sayana Commentary)
उभयासः उभयविधाः सुदाःसंज्ञोराजा तत्सहायभूतास्तृत्सवश्च एवं द्विप्रकाराजनाः आजिषु संग्रामेषु इन्द्रञ्च वरुणञ्च युवां हवन्ते आह्व- यन्ते किमर्थं वस्वोधनस्य सातये संभजनार्थं यत्र येष्वाजिषु दशभिर्दशसंख्याकैः राजभिः शत्रुभूतैः नृपैः निबाधितं नितरां हिंसितं सुदासं तृत्सुभिः सहवर्तमानं प्रावतं युवां प्रकर्षेणारक्षतं तेष्वाजिष्वित्यन्वयः ॥ ६ ॥