श्रवणम्

7.83.9
वृ॒त्राण्य॒न्यः स᳚मि॒थेषु॒ जिघ्न᳚ते व्र॒तान्य॒न्यो अ॒भि र᳚क्षते॒ सदा᳚ ।
हवा᳚महे वां वृषणा सुवृ॒क्तिभि᳚र॒स्मे इ᳚न्द्रावरुणा॒ शर्म᳚ यच्छतम् ॥
▶ पदपाठः (Word-by-word)
वृ॒त्राणि᳚ । अ॒न्यः । स॒म्॑इ॒थेषु᳚ । जिघ्न᳚ते । व्र॒तानि᳚ । अ॒न्यः । अ॒भि । र॒क्ष॒ते॒ । सदा᳚ ।
हवा᳚महे । वा॒म् । वृ॒ष॒णा॒ । सु॒वृ॒क्ति॑भिः᳚ । अ॒स्मे इति᳚ । इ॒न्द्रा॒व॒रु॒णा॒ । शर्म᳚ । य॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ यवयोरन्यएकइन्द्रः वृत्राणि शत्रून् समिथेषु संग्रामेषु जिघ्नते हन्ति अन्यएकोवरुणः सदा सर्वदा व्रतानि कर्माणि अभि- रक्षते अभितः सर्वतोरक्षति हे वृषणा कामानां वर्षिताराविन्द्रावरुणौ तथाविधौ वां युवां सुवृक्तिभिः सुप्रवृत्ताभिः स्तुतिभिः हवामहे आह्वयामहे आहूतौ च युवां अस्मे अस्मभ्यं शर्म सुखं यच्छतं दत्तम् ॥ ९ ॥