आ या᳚हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा᳚ इ॒मम् ।
एदं ब॒र्हिः स᳚दो॒ मम᳚ ॥
एदं ब॒र्हिः स᳚दो॒ मम᳚ ॥
पदपाठः (Word-by-word)
आ । या॒हि॒ । सु॒सु॒म । हि । ते॒ । इन्द्र᳚ । सोम᳚म् । पिब᳚ । इ॒मम् ।
आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम᳚ ॥
आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वमायाह्चागच्छ ते त्वदर्थं सुषुमाहि अभिषुतवंतः खलु सोमं वयम् । तमिममभिषुतं सोमं पिब । तदर्थं मम मदीयं इदं बर्हिर्वेद्यामा- स्तीर्णं आसदः आसीद अभिनिषीद ॥ १ ॥