श्रवणम्

8.17.6
स्वा॒दुष्टे᳚ अस्तु सं॒सुदे॒ मधु᳚मान्त॒न्वे॒३॒᳚ तव᳚ ।
सोम॒ः शम᳚स्तु ते हृ॒दे ॥
▶ पदपाठः (Word-by-word)
स्वा॒दुः । ते॒ । अ॒स्तु॒ । स॒म्॑सुदे᳚ । मधु᳚॑मान् । त॒न्वे᳚ । तव᳚ ।
सोमः᳚ । शम् । अ॒स्तु॒ । ते॒ । हृ॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

संसुदे सम्यक् सुष्ठु दात्रे हे इन्द्र ते तुभ्यं मधुमान् माधुर्यवानयं सोमः स्वादुरस्तु रुचिकरोभवतु तव तन्वे शरीराय च स्वादुरस्तु । ते तव हृदे हृदयायच ससोमः शमस्तु सुखजनकं भवतु ॥ ६ ॥