वास्तो᳚ष्पते ध्रु॒वा स्थूणांस᳚त्रं सो॒म्याना᳚म् ।
द्र॒प्सो भे॒त्ता पु॒रां शश्व᳚तीना॒मिन्द्रो॒ मुनी᳚नां॒ सखा᳚ ॥
द्र॒प्सो भे॒त्ता पु॒रां शश्व᳚तीना॒मिन्द्रो॒ मुनी᳚नां॒ सखा᳚ ॥
पदपाठः (Word-by-word)
वास्तोः᳚ । प॒ते॒ । ध्रु॒वा । स्थूणा᳚ । अंस᳚त्रम् । सो॒म्याना᳚म् ।
द्र॒प्सः । भे॒त्ता । पु॒राम् । शश्व᳚तीनाम् । इन्द्रः᳚ । मुनी᳚नाम् । सखा᳚ ॥
द्र॒प्सः । भे॒त्ता । पु॒राम् । शश्व᳚तीनाम् । इन्द्रः᳚ । मुनी᳚नाम् । सखा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वास्तोष्पते गृहपते स्थूणा गृहाधारभूतस्तंभः ध्रुवा स्थिरा भवतु सोम्यानां सोमार्हाणां सोमसंपादिनां वास्माकं अंसत्रं अंसत्राणं अंसोपलक्षि- तस्य कृत्स्नशरीरस्य त्रायकं रक्षकं बलं भव तु । अपिच द्रप्सः द्रवणशीलः सोमः तद्वान् अर्शआदित्वादच्प्रत्ययः शश्वतीनां बह्वीनां पुरामसुरपुरीणां भेत्ता विदारयिता एवंभूतइन्द्रोमुनीनामृषीणामस्माकं सखा मित्रभूतोभवतु ॥ १४ ॥