श्रवणम्

8.17.5
आ ते᳚ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा᳚वतु ।
गृ॒भा॒य जि॒ह्वया॒ मधु᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । सि॒ञ्चा॒मि॒ । कु॒क्ष्योः । अनु᳚ । गात्रा᳚ । वि । धा॒व॒तु॒ ।
गृ॒भा॒य । जि॒ह्वया᳚ । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव कुक्ष्योरुदरयोः आसिञ्चामि सोमानवनयामि कुक्षी सोमेन पूरयामीत्यर्थः । इन्द्रस्यहि द्वे उदरे । तथाचश्रूयते-ओभाकुक्षीपृणता वार्त्रघ्नं च माघोनंचेति । यद्वा एकस्यैवोदरस्य सव्यदक्षिणभेदेन ऊर्ध्वाधोभागभेदेनवा द्वित्वम् सचासिक्तः सोमः गात्रा गात्राणि शरीरावयवानि हस्तपादादीनि सर्वाण्यनुक्रमेण विधावतु व्याप्नोतु त्वञ्च मधु मधुरं मयासिच्यमानं सोमं जिह्वया रसनेन्द्रियेण गृभाय गृहाण । छन्दसि शायजपी- ति ग्रहउत्तरस्यश्नः शायजादेशः हृग्रहोर्भइति भत्वम् ॥ ५ ॥