श्रवणम्

8.17.3
ब्र॒ह्माण᳚स्त्वा व॒यं यु॒जा सो᳚म॒पामि᳚न्द्र सो॒मिनः᳚ ।
सु॒ताव᳚न्तो हवामहे ॥
▶ पदपाठः (Word-by-word)
ब्र॒ह्माणः᳚ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒॑पाम् । इ॒न्द्र॒ । सो॒मिनः᳚ ।
सु॒त॑व᳚न्तः । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ब्रह्माणोब्राह्मणावयं त्वा त्वां युजा योग्येन स्तोत्रेण हवामहे आह्वयामहे । कथंभूतं सोमपां सोमस्य पातारम् । कीदृशावयं सोमिनः सो- मयुक्ताः सुतवन्तः अभिषुतैश्च सोमैरुपेताः ॥ ३ ॥