श्रवणम्

8.17.7
अ॒यमु᳚ त्वा विचर्षणे॒ जनी᳚रिवा॒भि संवृ᳚तः ।
प्र सोम᳚ इन्द्र सर्पतु ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ऊं॒ इति᳚ । त्वा॒ । वि॒॑च॒र्ष॒णे॒ । जनीः᳚॑इव । अ॒भि । सम्॑वृ᳚तः ।
प्र । सोमः᳚ । इ॒न्द्र॒ । स॒र्प॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विचर्षणे विद्रष्टरिन्द्र जनीरिव जनयोजायाइव तायथा शुक्लैर्वस्त्रैः संवृताभवन्ति एवं संवृतः पयःप्रभृतिभिः श्रयणद्रव्यैरावृतोयं सोमः अभिप्रसर्पतु अभिगच्छतु उइतिपूरकः ॥ ७ ॥