श्रवणम्

8.17.9
इन्द्र॒ प्रेहि᳚ पु॒रस्त्वं विश्व॒स्येशा᳚न॒ ओज᳚सा ।
वृ॒त्राणि᳚ वृत्रहञ्जहि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । प्र । इ॒हि॒ । पु॒रः । त्वम् । विश्व᳚स्य । ईशा᳚नः । ओज᳚सा ।
वृ॒त्राणि᳚ । वृ॒त्र॒॑ह॒न् । ज॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ओजसा बलेन विश्वस्य सर्वस्य जगतः ईशानः स्वामी भवन् त्वं पुरः अस्माकं पुरस्तात्प्रेहि प्रगच्छ प्रामुहि । हे वृत्रहन् वृत्राणामावर- काणां शत्रूणां हन्तः वृत्राणि अस्मदीयानि शत्रुजातानि जहि विनाशय ॥ ९ ॥