श्रवणम्

8.17.10
दी॒र्घस्ते᳚ अस्त्वङ्कु॒शो येना॒ वसु᳚ प्र॒यच्छ᳚सि ।
यज᳚मानाय सुन्व॒ते ॥
▶ पदपाठः (Word-by-word)
दी॒र्घः । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒शः । येन᳚ । वसु᳚ । प्र॒॑यच्छ᳚सि ।
यज᳚मानाय । सु॒न्व॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव अंकुशः सृणिः आकर्षणसाधनमायुधं दीर्घोस्तु आयतोभवतु । यथा दूरस्थमपि वस्तुव्याप्नोति तथा आयामवान्भवत्वित्यर्थः येनां- कुशेन सुन्वते सोमाभिषवं कुर्वते यजमानाय ःःःह्ह्ह् वसु धनमाहृत्य प्रयच्छसि ददासि ॥ १० ॥