श्रवणम्

8.17.13
यस्ते᳚ शृङ्गवृषो नपा॒त्प्रण᳚पात्कुण्ड॒पाय्य᳚ः ।
न्य᳚स्मिन्दध्र॒ आ मनः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । शृ॒ङ्ग॒॑वृ॒षः॒ । न॒पा॒त् । प्रन᳚पा॒दिति॒ प्र॑न᳚पात् । कु॒ण्ड॒॑पाय्यः᳚ ।
नि । अ॒स्मि॒न् । द॒ध्रे॒ । आ । मनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शृंगवृषोनपात् शृंगवृषा नाम कश्चदृषिः तस्यचेन्द्रः स्वयं पुत्रतयाजज्ञइत्याख्यायिका । नपादित्यनाम शृंगवृषःपुत्र । यद्वा श्रृणन्ति हिंसन्तीति शृंगाणि रश्मयः तैर्वर्षतीति शंगवृडादित्यः तस्य नपातयितः स्वकीये स्थानेवस्थापयितः सुबामंत्रितइति षष्ठचंतस्य परांगवद्धावेनामन्त्रितानुप्रवे- शात् समुदायस्याष्टमिकं सर्वानुदात्तत्वम् । ईदृश हे इन्द्र ते तव संबंधी प्रणपात् प्रकर्षेण नपातयिता रक्षिता कुंडपाय्यः कुडैः पीयते अस्मिन् सोम- इति कुंडपाय्यः क्रतुविशेषः क्रतौ कुंडपाय्यसंचाय्याविति पिबतेरधिकरणे यत्प्रत्ययोयुगागम श्चनिपात्यते एतत्संज्ञोयः क्रतुरस्ति अस्मिन् कुंडपाय्ये क्रतौ मनः स्वान्तं आनिदध्रे अभितोवर्तमानाः कुंडपायिनामानऋषयः पुरा निदधिरे सम्यक् त्वद्देवत्यंक्रतुमनुष्ठितवन्तइत्यर्थः । दधातेर्लिटि इरयोरे इतिरेभावः ॥ १३ ॥