श्रवणम्

8.17.4
आ नो᳚ याहि सु॒ताव᳚तो॒॑स्माकं᳚ सुष्टु॒तीरुप᳚ ।
पिबा॒ सु शि᳚प्रि॒न्नन्ध᳚सः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । या॒हि॒ । सु॒त॑व᳚तः । अ॒स्माक᳚म् । सु॒॑स्तु॒तीः । उप᳚ ।
पिब᳚ । सु । शि॒प्रि॒न् । अन्ध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सुतवतः अभिषुतसोमयुक्तान् नोस्मानायाह्वभिगच्छ ततोस्माकं संबंधीनि सुष्टुतीः शोभनानि स्तोत्राणि उपगच्छ जानीहि । हे सुशिप्रिन् शोभनशिरस्त्राण शोभनहनुकवेन्द्र अन्धसः अन्नस्य सोमलक्षणस्य स्वांशलक्षणं भागं पिब यद्वा कर्मणिषष्ठी अंधोस्मदीयं सोमं पिब ॥ ४ ॥