अ॒यं त᳚ इन्द्र॒ सोमो॒ निपू᳚तो॒ अधि᳚ ब॒र्हिषि᳚ ।
एही᳚म॒स्य द्रवा॒ पिब᳚ ॥
एही᳚म॒स्य द्रवा॒ पिब᳚ ॥
पदपाठः (Word-by-word)
अ॒यम् । ते॒ । इ॒न्द्र॒ । सोमः᳚ । नि॑पू᳚तः । अधि᳚ । ब॒र्हिषि᳚ ।
आ । इ॒हि॒ । ई॒म् । अ॒स्य । द्रव᳚ । पिब᳚ ॥
आ । इ॒हि॒ । ई॒म् । अ॒स्य । द्रव᳚ । पिब᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र ते तुभ्यं त्वदर्थं अयं सोमोबर्हिष्यधि वेद्यामास्तीर्णे दर्भे निपूतः नितरांदशापवित्रेण शोधितः अभिषवादिसंस्कारैः संस्कृतइत्यर्थः । र्इं इदानीं अस्य इमं सोमं प्रति एहि आगच्छ आगत्य यत्र रसात्मकः सोमोहूयते तं देशं प्रति द्रव शीघ्रंगच्छ तदनंतरं तं सोमं पिब ॥ ११ ॥