श्रवणम्

8.17.2
आ त्वा᳚ ब्रह्म॒युजा॒ हरी॒ वह᳚तामिन्द्र के॒शिना᳚ ।
उप॒ ब्रह्मा᳚णि नः शृणु ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । ब्र॒ह्म॒॑युजा᳚ । हरी॒ इति᳚ । वह᳚ताम् । इ॒न्द्र॒ । के॒शिना᳚ ।
उप᳚ । ब्रह्मा᳚णि । नः॒ । शृ॒णु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ब्रह्मयुजा ब्रह्मणा मंत्रेण युज्यमानौ केशिना केशिनौ केशवन्तौ हरी हरणशीलावश्वौ त्वा त्वां आवहतां अभिप्रापयताम् । त्वं चास्मद्य- ज्ञमुपेत्य नोस्माकं ब्रह्माणि स्तोत्राणि शृणु स्तोत्राणि गृहाण सम्यक् चित्ते धारय ॥ २ ॥