श्रवणम्

6.16.1
त्वम᳚ग्ने य॒ज्ञानां॒ होता॒ विश्वे᳚षां हि॒तः ।
दे॒वेभि॒र्मानु᳚षे॒ जने᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । य॒ज्ञाना᳚म् । होता᳚ । विश्वे᳚षाम् । हि॒तः ।
दे॒वेभिः᳚ । मानु᳚षे । जने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं विश्वेषां सर्वेषां सप्तसंस्थारूपेणभिन्नानांयज्ञानांहोता होमनिष्पादकोसि यद्वा यज्ञानांसंबन्धीदेवानामाह्वाताभवसि कुतइत्यतआह यस्मात्त्वं मानुषे मनोःसंबन्धिनिमनुष्ये जने यजमाने देवेभिर्देवैः हितः होतृत्वेननिहितोसि तस्मादित्यर्थः ॥ १ ॥