श्रवणम्

6.16.21
स प्र᳚त्न॒वन्नवी᳚य॒साग्ने᳚ द्यु॒म्नेन᳚ सं॒यता᳚ ।
बृ॒हत्त᳚तन्थ भा॒नुना᳚ ॥
▶ पदपाठः (Word-by-word)
सः । प्र॒त्न॒॑वत् । नवी᳚यसा । अग्ने᳚ । द्यु॒म्नेन᳚ । स॒म्॑यता᳚ ।
बृ॒हत् । त॒त॒न्थ॒ । भा॒नुना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने यःपूर्वोक्तगुणविशिष्टः सतादृशस्त्वं प्रत्नवत् प्रत्नेनपुराणेन नवीयसा नवतरेण द्युम्नेनद्योतमानेन संयता संगच्छता सम्यग्व्याप्नु- वता भानुना तेजसा बृहन्महदन्तरिक्षं ततन्थ विस्तारयसि ॥ २१ ॥