तं त्वा᳚ स॒मिद्भि᳚रङ्गिरो घृ॒तेन᳚ वर्धयामसि ।
बृ॒हच्छो᳚चा यविष्ठ्य ॥
बृ॒हच्छो᳚चा यविष्ठ्य ॥
पदपाठः (Word-by-word)
तम् । त्वा॒ । स॒मित्॑भिः᳚ । अ॒ङ्गि॒रः॒ । घृ॒तेन᳚ । व॒र्ध॒या॒म॒सि॒ ।
बृ॒हत् । शो॒च॒ । य॒वि॒ष्ठ्य॒ ॥
बृ॒हत् । शो॒च॒ । य॒वि॒ष्ठ्य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअङ्गिरः अङ्गनादिगुणयुक्त अङ्गाररूपवा अङ्गिरसःपुत्रवाग्ने तं पूर्वोक्तगुणं त्वा त्वां समिद्भिः समिन्धनहेतुभिर्दारुभिः घृतेना- ज्येनच वर्धयामसि वर्धयामः अतोहेयविष्ठ्य युवतमाग्ने बृहत् महत् अत्यन्तं शोच दीप्यस्व ॥ ११ ॥