अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये ।
नि होता᳚ सत्सि ब॒र्हिषि᳚ ॥
नि होता᳚ सत्सि ब॒र्हिषि᳚ ॥
पदपाठः (Word-by-word)
अग्ने᳚ । आ । या॒हि॒ । वी॒तये᳚ । गृ॒णा॒नः । ह॒व्य॑दा᳚तये ।
नि । होता᳚ । स॒त्सि॒ । ब॒र्हिषि᳚ ॥
नि । होता᳚ । स॒त्सि॒ । ब॒र्हिषि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वमायाहि आगच्छ किमर्थं वीतये हविषांभक्षणार्थं किंच हव्यदातये हव्यानि हवींषिदेवेभ्योदातुं गृणानः स्तूयमानस्त्वं बर्हिषि आस्तीर्णेदर्भे होतासन् निषत्सि निषीद उपविश ॥ १० ॥