य उ॒ग्र इ᳚व शर्य॒हा ति॒ग्मशृ᳚ङ्गो॒ न वंस᳚गः ।
अग्ने॒ पुरो᳚ रु॒रोजि᳚थ ॥
अग्ने॒ पुरो᳚ रु॒रोजि᳚थ ॥
पदपाठः (Word-by-word)
यः । उ॒ग्रः॑इ᳚व । श॒र्य॒॑हा । ति॒ग्म॑शृ᳚ङ्गः । न । वंस᳚गः ।
अग्ने᳚ । पुरः᳚ । रु॒रोजि᳚थ ॥
अग्ने᳚ । पुरः᳚ । रु॒रोजि᳚थ ॥
सायणभाष्यम् (Sayana Commentary)
योग्निः उग्रइव उद्गीर्णबलोधन्वीव शर्यहा शर्यैर्बाणैः शत्रूणांहन्ता तिग्मशृंगोनवंसगः तीक्ष्णशृंगोवननीयगतिर्वृषभइव हेअग्ने सत्वं पुरः आसुरीस्तिस्रःपुरीः रुरोजिथ भग्नवानसि रुद्रोवाएषयदग्निरितिश्रुतेः । रुद्रकृतमपित्रिपुरदहनं अग्निकृतमेवेत्यग्निःस्तूयते यद्वा त्रिपुरदहन- साधनभूतेबाणे अग्नेरनीकत्वेनावस्थानात् अग्निःपुराणिभग्नवानित्युच्यते देवासुरावाएषुलोकेषुसमयतंतेत्यादिकंब्राह्मणमनुसन्धेयं ॥ ३९ ॥ अग्निमन्थनेजायमानेग्नौ आयंहस्तइत्येषानुवाक्या सूत्रितंच—आयंहस्तेनखादिनमित्यर्धर्चआरमेदिति ।