श्रवणम्

6.16.24
ता राजा᳚ना॒ शुचि᳚व्रतादि॒त्यान्मारु᳚तं ग॒णम् ।
वसो॒ यक्षी॒ह रोद᳚सी ॥
▶ पदपाठः (Word-by-word)
ता । राजा᳚ना । शुचि᳚॑व्रता । आ॒दि॒त्यान् । मारु᳚तम् । ग॒णम् ।
वसो॒ इति᳚ । यक्षि᳚ । इ॒ह । रोद᳚सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ प्रसिद्धौ राजाना राजमानौ शुचिव्रता शुचिकर्माणौ मित्रावरुणौ आदित्यानदितेःपुत्रान् धात्रादीन् मारुतंगणं मरुतांसंघंच रोदसी द्यावापृथिव्यौच एतान् देवान् हेवसो वासकाग्ने इहास्मिन् यज्ञे यक्षि यज ॥ २४ ॥