श्रवणम्

6.16.26
क्रत्वा॒ दा अ᳚स्तु॒ श्रेष्ठो॒॑द्य त्वा᳚ व॒न्वन्त्सु॒रेक्णा᳚ः ।
मर्त᳚ आनाश सुवृ॒क्तिम् ॥
▶ पदपाठः (Word-by-word)
क्रत्वा᳚ । दाः । अ॒स्तु॒ । श्रेष्ठः᳚ । अ॒द्य । त्वा॒ । व॒न्वन् । सु॒॑रेक्णाः᳚ ।
मर्तः᳚ । आ॒ना॒श॒ । सु॒॑वृ॒क्तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अद्येदानीं क्रत्वा कर्मणा परिचरणात्मना त्वा त्वां वन्वन् संभजन् दाः हविंषि दातायजमानः श्रेष्ठोतिशयेनप्रशस्योस्तु सुरेक्णाः शोभनधनश्चास्तु तथा समर्तोमनुष्यः सुवृक्तिं त्वद्विषयां सुष्टुतिंच आनाश व्याप्नोतु तव सर्वदास्तोताभवत्वित्यर्थः ॥ २६ ॥